|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.13. अध्यायः 013
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
कामस्य शक्तिकथनेन दुर्जयत्वकथनपूर्वकं तज्जयोपायकथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वासुदेव उवाच।
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्बवति वा न वा॥ 14-13-1(92707)
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृह्यतः।
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तव॥ 14-13-2(92708)
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्।
ममेति द्व्यक्षरो मृत्युर्नममेति च शाश्वतम्॥ 14-13-3(92709)
ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ।
अदृश्यमानौ भूतानि योधयेतामसंशयम्॥ 14-13-4(92710)
अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत।
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते॥ 14-13-5(92711)
लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्।
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति॥ 14-13-6(92712)
अथवा वसतः पार्थ वने वन्येन जीवतः।
ममता यस्य वित्तेषु मृत्योरांस्ये स वर्तते॥ 14-13-7(92713)
ब्राह्यान्तराणां शत्रूणां स्वभावं पश्य भारत।
यन्न पश्यति तद्भूतं मुच्यते स महाभयात्॥ 14-13-8(92714)
कामात्मानं न प्रशंसन्ति लोके
नेहाकामा काचिदस्ति प्रवृत्तिः।
सर्वे कामा मनसोऽङ्ग प्रभूता
यान्पण्डितः संहरते विचिन्त्य।
भूयोभूयो जन्मनोऽभ्यासयोगा-
द्योगी योगं सारमार्गं विचिन्त्य॥ 14-13-9(92715)
दानं च वेदाध्ययनं तपश्च
काम्यानि कर्माणि च वैदिकानि।
व्रतं यज्ञान्नियमान्ध्यानयोगा-
न्कामेन यो नारभते विदित्वा।
यद्यच्चायं कामयते स धमो
नयो धर्मो नियमस्तस्य मूलम्॥ 14-13-10(92716)
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः।
शृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर॥ 14-13-11(92717)
काम उवाच। 14-13-12x(7796)
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्॥ 14-13-12(92718)
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्।
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम्॥ 14-13-13(92719)
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः।
जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम्॥ 14-13-14(92720)
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः।
स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम्॥ 14-13-15(92721)
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः।
भावो भवामि तस्याहं स च मां नावबुध्यते॥ 14-13-16(92722)
यो मां प्रयतते हन्तुं तपसा संशितव्रतः।
ततस्पपसि तस्यथ पुनः प्रादुर्भवाम्यहम्॥ 14-13-17(92723)
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः।
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च।
अवध्यः सर्वभूतानामहमेकः सनातनः॥ 14-13-18(92724)
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः।
धर्मे कुरु महाराज तत्र ते स भविष्यति॥ 14-13-19(92725)
मा ते व्यथाऽस्तु निहतान्बन्धून्वीक्ष्य पुनःपुनः।
न शक्यास्ते पुनर्द्रष्ट्रं येऽहतास्मिन्रणाजिरे॥ 14-13-20(92726)
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः।
कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि॥ ॥ 14-13-21(92727)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि त्रयोदशोऽध्यायः॥ 13 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-13-1 न बाह्यस्य राज्यादेरर्थस्य त्यागात्त्यग्गी भवति किन्तु शरीरं कामादिकं त्यक्त्वैव सिद्धिर्मोक्षः नवेति शुष्कवैराग्यवतो विवेकशून्यस्य सिद्ध्यभावं सूचयति। उत्सृज्य सिद्धिर्भवति भारतेतिक.ध.पाठः॥ 7-13-2 गृद्ध्य सक्तस्य यो धर्मः सः अधर्मएव यत्सुखं तद्दुःखमेव॥ 7-13-3 मम त्वं संसारहेतुः तदभावो ब्रह्मप्राप्तिहेतुरित्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|